JayaDeva GitaGovinda

प्रलयपयोधिजले धृतवानसि वेदम् विहितवहित्रचरित्रमखेदं केशव! धृत मीनशरीर जय जगदीश हरे क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे धरणिधरणकिणचक्रगरिष्ठे केशव! धृत कच्छपरूप जय जगदीश हरे वसति दशनशिखरे धरणी तव लग्ना शशिनि कलङ्ककलेव निमग्ना केशव! धृत सूकररूप जय जगदीश हरे तव करकमलवरे नखमद्भुतशृङ्गं दलित हिरण्यकशिपु तनुभृङ्गम् केशव! धृत नरहरिरूप जय जगदीश हरे छलयसि विक्रमणे बलिमद्भुत वामन पदनखनीरजनितजनपावन केशव धृत वामनरूप जय जगदीश हरे क्षत्रियरुधिरमये जगदपगतपापं स्नपयसि पयसि शमित भवतापम् केशव! धृत भृगुपतिरूप जय जगदीश हरे वितरसि दिक्षु रणे दिक्पति कमनीयं दशमुखमौलिबलिं रमणीयम् केशव! धृत रघुपतिरूप जय जगदीश हरे वहसि वपुषि विशदे वसनं जलदाभं हलहतिभीतिमिलितयमुनाभम् केशव! धृत हलधररूप जय जगदीश हरे निन्दसि यज्ञविधेरहह श्रुतिजातं सदय हृदय दर्शितपशुघातम् केशव! धृत बुद्धशरीर जय जगदीश हरे म्लेच्छनिवहनिधने कलयसि करवालं धूमकेतुमिव किमपि करालं केशव! धृत कल्किशरीर जय जगदीश हरे श्रीजयदेवकवेरिदमुदितमुदारं शृणु सुखदं शुभदं भवसारम् केशव! धृत दशविधरूप जय जगदीश हरे श्रितकमलाकुचमण्ड धृतकुण्डल कलित ललितवनमा जय जय देव हरे दिनमणिमण्डलमण्डन भवखण्डन मुनिजनमानसहंस कालियविषधरभञ्जन जनरञ्जन यदुकुलनलिनदिनेश मधुमुरनरकविनाशन गरुडासन सुरकुलकेलिनिदान अमलकमलदललोचन भवमोचन त्रिभुवनभवननिदान जनकसुताकुचभूष जितदूषण समरशमितदशकण्ठ अभिनवजलधरसुन्दर धृत मन्दर श्रीमुखचन्द्रचकोर श्रीजयदेवकवेरिदं कुरुते मुदं मङ्गलमुज्ज्वलगीतं वसन्ते वासन्तीकुसुमसुकुमारैरवयवैः भ्रमन्तीं कान्तारे बहुविहितकृष्णानुसरणां । अमन्दं कन्दर्पज्वरजनितचिन्ताकुलतया वलत्पादां राधां सरसमिदमूचे सहचरी ॥ ललित-लवङ्गलता-परिशीलन-कोमल-मलयसमीरे।मधुकर-निकर-करम्बित-कोकिल-कूजित-कुञ्जकुटीरे॥ उन्मद-मदन-मनोरथ-पथिक-वधूजन-जनित-विलापे।अलिकुल-संकुल-कुसुम-समूह-निराकुल-वकुल-कलापे॥ >विहरति हरिरिह सरसवसन्ते नृत्यति युवतिजनेन समं सखि विरहिजनस्य दुरन्ते मृगमद-सौरभ-रभस-वशंवद-नवदलमाल-तमाले।युवजन-हृदय-विदारण-मनसिज-नखरुचि-किंशुकजाले॥ मदन-महीपति-कनकदण्डरुचि-केसर-कुसुम-विकासे।मिलित-शिलीमुख-पाटलपटल-कृतस्मरतूण-विलासे॥ विगलित-लज्जित-जगदवलोकन-तरुण-करुण-कृत-हासे।विरहि-निकृन्तन-कुन्दमुखाकृति-केतकि-दन्तुरिताशे॥ माधविका-परिमल-मिलिते नवमालिकयाऽतिसुगन्धौ।मुनिमनसामपिमोहनकारिणि तरुणाकारणबन्धौ॥ स्फुरदति-मुग्धलता-परिरंभण-मुकुलित-पुलकित-चूते। बृन्दावन-विपिने-परिसर-परिगत-यमुनाजल-पूते॥ श्रीजयदेवभणितमिदं उदयति हरिचरणस्मृतिसारं।सरस-वसन्त-समय-वनवर्णन-मनुगत-मदनविकारम् चन्दनचर्चित-नीलकलेबर-पीतवसन-वनमालि।केलिचल्न्मणि-कुण्डल-मण्डित-गण्डयुग-स्मितशालि॥ >हरिरिह मुग्धवधूनिकरे विलासिनि विलसति केलिपरे हरिरिह मुग्धवधूनिकरे पीनपयोधर-भार-भरेण हरिं परिरभ्य सरागम्।गोपवधूरनुगायति काचित् उदञ्चित-पञ्चम-रागम् कापि विलास-विलोल-विलोचन-खेलन-जनित-मनोजम्।ध्यायति मुग्धवधूरधिकं मधुसूदन-वदन-सरोजम् कापि कपोलतले मिलिता लपितुं किमपि श्रुतिमूले।चारु चुचुम्ब नितम्बवती दयितं पुलकैरनुकूले केलिकला-कुतुकेन च काचिदमुं यमुनावनकूले।मञ्जुल-वज्जुल-कुञगतं विचकर्ष करेण दुकूले करतल-ताल-तरल-वलयावलि-कलित-कलस्वन-वंशे रासरसे सह नृत्यपरा हरिणा युवतिः प्रशशंसे श्लिष्यति कामपि चुम्बति कामपि कामपि रमयति रामाम्।पश्यति सस्मितचारु परामपरामनुगच्छति वामाम् श्रीजयदेव-भणितमिदं अद्भुत-केशव-केलि-रहस्यम्।बृन्दावनविपिने चरितं वितनोतु शुभानि यशस्यम् सञ्चरदधरसुधा-मधुरध्वनिमुखरित-मोहन-वंशं।चलित- दृगञ्चल-चञ्चल-मौलि-कपोल-विलोल-वतंसम्॥ >रासे हरिमिह विहितविलासं स्मरति मनो मम कृतपरिहासम् चन्द्रक-चारु-मयूर-शिखण्डक-मण्डल-वलयित-केशम् प्रचुर-पुरन्दरधनु-रनुरञ्जित-मेदुर-मुदिर-सुवेषम् गोप-कदंब-नितंबवतीमुख-चुम्बन-लम्बित-लोभम्।बन्धुजीव-मधुराधर-पल्लव-कलित-दरस्मित-शोभम् विपुल-पुलक-भुजपल्लव-वलयित-वल्लव-युवति-सहस्रं करचरणोरसि-मणिगणभूषण-किरण-विभिन्न-तमिस्रम् जलदपटल-चलदिन्दु-विनिन्दक-चन्दन-बिन्दु-ललाटम्। पीनपयोधर-परिसरमर्दन-निर्दय-हृदय-कवाटम् मणिमय-मकर-मनोहर-कुण्डल-मण्डित-गण्ड-मुदारम्।पीतवसन-मनुगत-मुनि-मनुज-सुरासुरवरपरिवारम् विशद-कदम्बतले-मिलितं कलिकलुष-भयं-शमयन्तम्।मामपि किमपि तरङ्गदनङ्गदृशा वपुषा रमयन्तम् श्रीजयदेवभणितं-अतिसुन्दर-मोहन-मधुरिपु-रूपम्।हरिचरणस्मरणं प्रति संप्रति पुण्यवतां अनुरूपम् निभृत-निकुञ्जगतया निशि रहसि निलीय वसन्तम्।चकितविलोकितसकलदिशा रतिरभसभरेण हसन्तम् ॥ >सखि हे केशिमथनमुदारं रमय मया सह मदनमनोरथभावितया सविकारम्॥ प्रथमसमागमलज्जितया पटु चाटुशतैरनुकूलम्।मृदुमधुरस्मितभाषितया शिथिलीकृतजघनदुकूलम् किसलयशयननिवेशितया चिरमुरसि ममैव शयानम्।कृतपरिरम्भणचुम्बनया परिरभ्य कृताधरपानम् अलसनिमीलितलोचनया पुलकावलिललितकपोलम्। श्रमजलसिक्तकलेवरया वरमदनमदादतिलोलम् कोकिलकलरवकूजितया जितमनसिजतन्त्रविचारम्।श्लथकुसुमाकुलकुन्तलया नखलिखितघनस्तनभारम् चरणरणितमणिनूपुरया परिपूरितसुरतवितानम्।मुखरविशृंखलमेखलया सकचग्रहचुम्बनदानम् रतिसुखसमयरसालसया दरमुकुलितनयनसरोजम्।निःसहनिपतिततनुलतया मधुसूदनमुदितमनोजम् श्रीजयदेव भणितमिदमतिशयमधुरिपुनिधुवनशीलम्।सुखमुत्कण्ठितराधिकयाकथितं वितनोतु सलीलम् मामियं चलिता विलोक्य वृतं वधूनिचयेन।सापराधतया मयापि न वारितातिभयेन ॥ >हरिहरि हतादरतया गता सा कुपितेव किं करिष्यति किं वदिष्यति सा चिरं विरहेण।किं धनेन जनेन किं मम जीवितेन गृहेण चिन्तयामि तदाननं कुटिलभ्रूरोषभरेण।शोणपद्ममिवोपरि भ्रमताकुलं भ्रमरेण तामहं हृदि संगतामनिशं भृशं रमयामि।किं वनेऽनुसरामि किं वृथा विलपामि तन्वि खिन्नमसूयया हृदयं तवाकलयामि।तन्न वेद्मि कुतो गतासि न तेन तेऽनुनयामि दृश्यसे पुरतो गतागतमेव मे विदधासि किं पुरेव ससंभ्रमं परिरंभणं न ददासि क्षम्यतामपरं कदापि तवेदृशं न करोमि।देहि सुन्दरि दर्शनं मम मन्मथेन दुनोमि क्षम्यतामपरं कदापि तवेदृशं न करोमि।देहि सुन्दरि दर्शनं मम मन्मथेन दुनोमि वर्णितं जयदेवकेन हरेरिदं प्रणतेन।किन्दुबिल्वसमुद्रसंभवरोहिणीरमणेन निन्दति चन्दनमिन्दुकिरणमनुविन्दति खेदमधीरम्।व्यालनिलयमिलनेन गरलमिव कलयति मलयसमीरम् माधव मनसिजविशिखभयादिव भावनया त्वयि लीना| >सा विरहे तव दीना अविरलनिपतितमदनशरादिव भवदवनाय विशालम्।स्वहृदयमर्मणि वर्म करोति सजलनलिनदलजालम् कुसुमविशिखशरतल्पमनल्पविलासकलाकमनीयम्।व्रतमिव तव परिरंभसुखाय करोति कुसुमशयनीयम् वहति च चलितविलोचनजलधरमाननकमलमुदारम्।विधुमिव विकट विधुंतुददंतदलनगलितामृतधारम् विलिखति रहसि कुरंगमदेन भवंतमसमशरभूतम्।प्रणमति मकरमधो विनिधाय करे च शरं नवचूतम् ध्यानलयेन पुरः परिकल्प्य भवंतमतीवदुरापम्।विलपति हसति विषीदति रोदिति चंचति मुञ्चति तापम् प्रतिपदमिदमपि निगदति माधव तव चरणं पतिताहम्।त्वयि विमुखे मयि सपदि सुधानिधिरपि तनुते तनुदाहम् श्री जयदेवभणितमिदमधिकं यदि मनसा नटनीयम्।हरिविरहाकुलवल्लवयुवतिसखीवचनं पठनीयम् स्तनविनिहितमपि हारमुदारम्।सा मनुते कृशतनुरतिभारम् >तव विरहे केशव राधिका सरसमसृणमपि मलयजपङ्कम् पश्यति विषमिव वपुषि सशङ्कम् श्वसितपवनमनुपमपरिणाहम्।मदनदहनमिव वहति सदाहम् दिशि दिशि किरति सजलकणजालम्।नयननलिनमिव विगलितनालम् नयनविषयमपि किसलयतल्पम्।कलयति विहितहुताशविकल्पम् त्यजति न पाणितलेन कपोलम्।बालशशिनमिव सायमलोलम् हरिरिति हरिरिति जपति सकामम्।विरहविहितमरणेव निकामम् श्रीजयदेवभणितमिति गीतम्।सुखयतु केशवपदमुपनीतम्॥ वहति मलयसमीरे मदनमुपनिधाय।स्फुटति कुसुमनिकरे विरहिहृदयदलनाय >तव विरहे वनमाली सखि सीदति राधे दहति शिशिरमयूखे मरणं अनुकरोति।पतति मदनविशिखे विलपति विकलतरोऽति ध्वनति मधुपसमूहे श्रवणमपिदधाति।मनसि कलितविरहे निशि निशि रुजमुपयाति वसति विपिनविताने त्यजति ललितधाम।लुठति धरणिशयने बहु विलपति तव नाम भणति कविजयदेवि विरहिविलसितेन।मनसि रभसविभवे हरिरुदयतु सुकृतेन रतिसुखसारे गतमभिसारे मदनमनोहरवेषम्।न कुरु नितंबिनि गमनविलम्बनमनुसर तं हृदयेशम् >धीरसमीरे यमुनातीरे वसति वने वनमाली।गोपीपीनपयोधरमर्दनचंचलकरयुगशाली नामसमेतं कृतसङ्केतं वादयते मृदुवेणुम्।बहु मनुते तनुते तनुसङ्गतपवनचलितमपि रेणुम् पतति पतत्रे विचलितपत्रे शंकितभवदुपयानम्।रचयति शयनं सचकितनयनं पश्यति तव पन्थानम् मुखरमधीरं त्यज मञ्जीरं रिपुमिव केलिसुलोलम्।चल सखि कुञ्जं सतिमिरपुञ्जं शीलय नीलनिचोलम् उरसि मुरारेरुपहितहारे घन इव तरलबलाके।तडिदिव पीते रतिविपरीते राजसि सुकृतविपाके विगलितवसनं परिहृतरशनं घटय जघनमपिधानम्। किसलयशयने पंकजनयने निधिमिव हर्षनिधानम् हरिरभिमानी रजनिरिदानीमियमपि याति विरामम्।कुरु मम वचनं सत्वररचनं पूरय मधुरिपुकामम् श्री जयदेवे कृतहरिसेवे भणति परमरमणीयम्।प्रमुदितहृदयं हरिमतिसदयं नमत सुकृतकमनीयम् पश्यति दिशि दिशि रहसि भवन्तम्।तदधरमधुरमधूनि पिबन्तम् >नाथ हरे जय नाथ हरे सीदति राधा वासगृहे त्वदभिसरणरभसेन वलंती पतति पदानि कियन्ति चलन्ती विहितविशदबिसकिसलयवलया।जीवति परमिह तव रतिकलया मुहुरवलोकितमण्डन लीला मधुरिपुरहमितिभावनशीला त्वरितमुपैति न कथमभिसारम्।हरिरिति वदति सखीमनुवारम् श्लिष्यति चुम्बति जलधरकल्पम्।हरिरुपगत इति तिमिरमनल्पम् भवति विलम्बिनि विगलितलज्जा।विलपति रोदिति वासकसज्जा श्रीजयदेवकवेरिदमुदितम्।रसिकजनं तनुतामतिमुदितम् कथितसमयेऽपि हरिरहह न ययौ वनम्।मम विफलमिदममलरूपमपि यौवनम् >यामि हे कमिह शरणं सखीजनवचनवञ्चिता यदनुगमनाय निशि गहनमपि शीलितम्।तेन मम हृदयमिदमसमशरकीलितम् मम मरणमेव वरमतिवितथकेतना।किमिति विषहामि विरहानलमचेतना मामहह विधुरयति मधुरमधुयामिनी।कापि हरिमनुभवति कृतसुकृतकामिनी अहह कलयामि वलयादि मणिभूषणम्।हरिविरहदहनवहनेन बहुदूषणम् कुसुमसुकुमारतनुमतनुशरलीलया।स्रगपि हृदि हन्ति मामतिविषमशीलया अहमिह निवसामि न गणितवनवेतसा।स्मरति मधुसूदनो मामपि न चेतसा हरिचरणशरणजयदेवकविभारती ।वसतु हृदि युवतिरिव कोमलकलावती >कापि मधुरिपुणा विलसति युवतिरत्यधिकगुणा स्मरसमरोचितविरचितवेशा।गलितकुसुमदलविलुलितकेशा हरिपरिरम्भणवलितविकारा।कुचकलशोपरि तरलितहारा विचलदलकललिताननचन्द्रा।तदधरपानरभसकृततन्द्रा चञ्चलकुण्डलदलितकपोला।मुखरितरशनजघनगतिलोला दयितविलोकितलज्जितहसिता।बहुविधकूजितरतिरसरसिता विपुलपुलकपृथुवेपथुभंगा।श्वसितनिमीलितविकसदनंगा श्रमजलकणभरसुभगशरीरा।परिपतितोरसिरतिरणधीरा श्रीजयदेवभणितमतिललितम्।कलिकलुषं शमयतु हरिरमितम् >रमते यमुनापुलिनवने विजयी मुरारिरधुना समुदितमदने रमणीवदने चुम्बनवलिताधरे।मृगमदतिलकं लिखति सपुलकं मृगमिव रजनीकरे॥ घनचयरुचिरे रचयति चिकुरे तरलित तरुणानने।कुरुवककुसुमं चपलासुषुमं रतिपतिमृगकानने घटयति सुघने कुचयुगगगने मृगमदरुचिरूषिते।मणिसरममलं तारकपटलं नखपदशशिभूषिते जितबिसशकले मृदुभुजयुगले करतलनलिनीदले।मरकतवलयं मधुकरनिचयं वितरति हिमशीतले रतिगृहजघने विपुलापघने मनसिजकनकासने।मणिमयरशनं तोरणहसनं विकिरति कृतवासने चरणकिसलये कमलानिलये नखमणिगणपूजिते।बहिरपवरणं यावकभरणं जनयति हृदि योजिते रमयति भृशं कामपि सुदृशं खलहलधरसोदरे।किमफलमवसं चिरमिह विरसं वद सखि विटपोदरे इह रसभणने कृतहरिगुणने मधुरिपुपदसेवके।कलियुगचरितं न वसतु दुरितं कविनृपजयदेवके नायातः सखि निर्दयो यदि शठस्त्वं दूति किं दूयसे स्वच्छन्दं बहुवल्लभः स रमते किं तत्र ते दूषणम्। पश्याद्य प्रियसंगमाय दयितस्याकृष्यमाणं गुणै-रुत्कण्ठार्तिभरादिव स्फुटति तं चेतः स्वयं यास्यति अनिलतरलकुवलयनयनेन।तपति न सा किसलयशयनेन||>सखि या रमिता वनमालिना विकसितसरसिजललितमुखेन।स्फुटति न सा मनसिजविशिखेन अमृतमधुरमृदुतरवचनेन।ज्वलति न सा मलयजपवनेन स्थलजलरुहरुचिकरचरणेन।लुठति न सा हिमकरकिरणेन सजलजलदसमुदयरुचिरेण।दलति न सा हृदि विरहभरेण कनकनिकषरुचिशुचिवसनेन।श्वसिति न सा परिजनहसनेन सकलभुवनजनवरतरुणेन।वहति न सा रुजमतिकरुणेन श्रीजयदेवभणितवचनेन।प्रविशतु हरिरपि हृदयमनेन रजनिजनितगुरुजागररागकषायितमलसनिमेषम् वहतिनयनमनुरागमिवस्फुटमुदितरसाभिनिवेशम्।हरि हरि >याहि माधव याहि केशव मा कुरु कैतववादम्। तामनुसर सरसीरुहलोचन या तव हरति विषादम् कज्जलमलिनविलोचनचुम्बनविरचितनीलिमरूपम्।दशनवसनमरुणं तव कृष्ण तनोति तनोरनुरूपम् वपुरनुसरति तव स्मरसङ्गरखरनखरक्षतरेखम्।मरकतशकलकलितकलधौतलिपेरिव रतिजयलेखम् चरणकमलगलदलक्तकसिक्तमिदं तव हृदयमुदारम्।दर्शयतीव बहिर्मदनद्रुमनवकिसलयपरिवारम् दशनपदं भवदधरगतं मम जनयति चेतसि खेदम् ।कथयति कथमधुनापि मया सह तव वपुरेतदभेदम् बहिरिव मलिनतरं तव कृष्ण मनोऽपि भविष्यति नूनम्।कथमथ वञ्चयसे जनमनुगतमसमशरज्वरदूनम् भ्रमति भवानबलाकबलाय वनेषु किमत्र विचित्रम्।प्रथयति पूतनकैव वधूवधनिर्दयबालचरित्रम् श्रीजयदेवभणितरतिवञ्चितखण्डितयुवतिविलापम्।शृणुत सुधामधुरं विबुधा विबुधालयतोऽपि दुरापम् हरिरभिसरति वहति मधुपवने।किमपरमधिकसुखं सखि भवने >माधवे मा कुरु मानिनि मानमये तालफलादपि गुरुमतिसरसम्।किं विफलीकुरुषे कुचकलशम् कति न कथितमिदमनुपदमचिरम्।मा परिहर हरिमतिशयरुचिरम् किमिति विषीदसि रोदिषि विकला।विहसति युवतिसभा तव सकला मृदुनलिनीदलशीतलशयने।हरिमवलोकय सफलय नयने जनयसि मनसि किमिति गुरुखेदम्।शृणु मम वचनमनीहितभेदम् हरिरुपयातु वदतु बहु मधुरम्।किमिति करोषि हृदयमतिविधुरम् श्रीजयदेवभणितमतिललितम्।सुखयतु रसिकजनं हरिचरितम् वदसि यदि किञ्चिदपि दन्तरुचिकौमुदी हरति दरतिमिरमतिघोरम् स्फुरदधरसीधवे तव वदनचन्द्रमा रोचयति लोचनचकोरम् >प्रिये चारुशीले प्रिये चारुशीले मुञ्च मयि मानमनिदानम् सपदि मदनानलो दहति मम मानसं देहि मुखकमलमधुपानम् सत्यमेवासि यदि सुदति! मयि कोपिनी देहि खरनखरशरघातम्। घटय भुजबन्धनं जनय रदखण्डनं येन वा भवति सुखजातम् त्वमसि मम भूषणं त्वमसि मम जीवनं त्वमसि मम भवजलधिरत्नम्। भवतु भवतीह मयि सततमनुरोधिनी तत्र मम हृदयमतियत्नम् नीलनलिनाभमपि तन्वि! तव लोचनं धारयति कोकनदरूपम्। कुसुमशरबाणभावेन यदि रञ्जयसि कृष्णमिदमेतदनुरूपम् स्फुरतु कुचकुम्भयोरुपरिमणिमञ्जरी रञ्जयतु तव हृदयदेशम् । रसतु रशनापि तव घनजघनमण्डले घोषयतु मन्मथनिदेशम् स्थलकमलगञ्जनं मम हृदयरञ्जनं जनितरतिरङ्गपरभागम्। भण मसृणवाणि करवाणि चरणद्वयं सरसलसदलक्तकरागम् स्मरगरलखण्डनं मम शिरसि मण्डनं देहिपदपल्लवमुदारम्। ज्वलति मयि दारुणो मदनकदनानलो हरतु तदुपहितविकारम् इति चटुलचाटुपटुचारुमुरवैरिणो राधिकामधिवचनजातम्। जयति पद्मावतीरमणजयदेवकवि- भारतीभणितमिति गीतम् विरचितचाटुवचनरचनेन चरणरचितप्रणिपातं संप्रति मञ्जुलवञ्जुलसीमनि केलिशयनमनुयातम्। >मुग्धे मधुमथनमनुसर राधिके घनजघनस्तनभारभरे दरमन्थरचरणविहारम्।मुखरितमणिमञ्जीरमुपेहि विधेहि मरालविकारम् शृणु रमणीयतरं तरुणीजनमोहनमधुरिपुरावम्।कुसुमशरासनशासनवन्दिनि पिकनिकरे भज भावम् अनिलतरलकिसलयनिकरेण करेण लतानिकुरुम्बम्।प्रेरणमिव करभोरु! करोति गतिं प्रति मुञ्च विलम्बम् स्फुरितमनङ्गतरङ्गवशादिव सूचितहरिपरिरंभम्।पृच्छ मनोहरहारविमलजलधारममुं कुचकुम्भम् अधिगतमखिलसखीभिरिदं तव वपुरपि रतिरणसज्जम्।चण्डि! रणितरशनारवडिण्डिममभिसर सरसमलज्जम् स्मरशरसुभगनखेन सखीमवलम्ब्य करेण सलीलम्।चलवलयक्वणितैरवबोधय हरिमपि निजगतिशीलम् श्रीजयदेवभणितमधरीकृतहारमुदासितवामम्।हरिविनिहितमनसामधितिष्ठतु कण्ठतटीमविरामम् मञ्जुतरकुञ्जतलकेलिसदने।इह विलस रतिरभसहसितवदने॥>प्रविश राधे! माधवसमीपमिह नवभवदशोकदलशयनसारे।इह विलस कुचकलशतरलहारे कुसुमचयरचितशुचिवासगेहे।इह विलस कुसुमसुकुमारदेहे चलमलयपवनसुरभिशीते।इह विलस रसवलितललितगीते विततबहुवल्लिनवपल्लवघने।इह विलस पीनकुचकुम्भजघने मधुमुदितमधुपकुलकलितरावे।इह विलस मदनशररभसभावे मधुरतरपिकनिकरनिनदमुखरे।इह विलस दशनरुचि रुचिरशिखरे विहितपद्मावतीसुखसमाजे।कुरु मुरारे मङ्गलशतानि।भणितजयदेवकविराजराजे सा ससाध्वससानन्दं गोविन्दे लोललोचना।शिञ्जानमञ्जुमञ्जीरं प्रविवेश निवेशनम् राधावदनविलोकनविकसितविविधविकारविभङ्गम्।जलनिधिमिव विधुमण्डलदर्शनतरलिततुङ्गतरङ्गम्॥१॥ >हरिमेकरसं चिरमभिलषितविलासम्।सा ददर्श गुरुहर्षवशंवदवदनमनंगविकासम्॥ हारममलतरतारमुरसिततं परिलम्ब्य विदूरं।स्फुटतरफेनकदम्बकरम्बितमिव युमुनाजलपूरम् श्यामलमृदुलकलेवरमण्डलमधिगतगौरदुकूलम्।नीलनलिनमिव पीतपरागपटलभर वलयित मूलम् तरलदृगञ्चलचलनमनोहरमदनजनितरतिरागम्।स्फुटकमलोदरखेलितखञ्जनयुगमिव शरदि तडागम् वदनकमलपरिशीलनमिलितमिहिरसमकुण्डलशोभम् ।स्मितरुचिरुचिरसमुल्लसिताधरपल्लवकृतरतिलोभम् शशिकिरणच्छुरितोदरजलधरसुन्दरकुसुमसुकेशम्।तिमिरोदितविधुमण्डलनिर्मलमलयजतिलकनिवेशम् विपुलपुलकभरदन्तुरितं रतिकेलिकलाभिरधीरम्।मणिगणकिरणसमूहसमुज्ज्वलभूषणसुभग शरीरम् श्रीजयदेवभणितविभवे द्विगुणीकृतभूषणभारम्।प्रणमत हृदि विनिधाय हरिं सुचिरसुकृतोदयसारम् अतिक्रम्यापांगं श्रवणपथपर्यन्तगमन-प्रयासेनैवाक्ष्णोस्तरलतरतारं गमितयोः। इदानीं राधायाः प्रियतमसमालोकसमये पपात स्वेदांबुप्रसर इव हर्षाश्रुनिकरः भजन्त्यास्तल्पान्तं कृतकपटकण्डूतिपिहित-स्मिते याते गेहाद्बहिरवहितालीपरिजने। प्रियास्यं पश्यन्त्याः स्मरशरवशाकूतसुभगं सलज्जायाः लज्जा व्यगमदिव दूरं मृगदृशः जयश्रीविन्यस्तैर्महित इव मन्दारकुसुमैः स्वयं सिन्दूरेण द्विपरणमुदा मुद्रित इव। भुजापीडक्रीडाहतकुवलयापीडकरिणः प्रकीर्णासृग्बिन्दुर्जयति भुजदण्डो मुरजितः इति श्रीगीतगोविन्दे शृङ्गारमहाकाव्ये राधावर्णने सानन्दगिविन्दो नाम एकादश: सर्गः किसलयशयनतले कुरु कामिनि चरणनलिननिवेशं तव पदपल्लववैरिपराभवमिदमनुभवतु सुवेषम्॥१॥ >क्षणमधुना नारायणमनुगतमनुसर मां राधिके करकमलेन करोमि चरणमहमागमितासि विदूरम्।क्षणमुपकुरु शयनोपरि मामिव नूपुरमनुगतिशूरम् वदनसुधानिधिगलितममृतमिव रचय वचनमनुकूलम्।विरहमिवापनयामि पयोधररोधकमुरसि दुकूलम् प्रियपरिरम्भणरभसवलितमिव पुलकितमन्यदुरापम्।मदुरसि कुचकलशं विनिवेशय शोषय मनसिजतापम् अधरसुधारसमुपनय भामिनि!जीवय मृतमिव दासम्।त्वयि विनिहितमनसं विरहानलदग्धवपुषमविलासम् शशिमुखिमुखरयमणिरशनागुणमनुगुणकण्ठनिनादम्।ममश्रुतियुगले पिकरवविकले शमय चिरादवसादम् मामतिविफलरुषा विकलीकृतमवलोकितुमधुनेदम्।मीलति लज्जितमिव नयनं तव विरम विसृज रतिखेदम् श्रीजयदेवभणितमिदमनुपदनिगदितमधुरिपुमोदम्।जनयतु रसिकजनेषु मनोरमरतिरसभावविनोदम् कुरु यदुनन्दन चन्दनशिशिरतरेण करेण पयोधरे मृगमदपत्रकमत्र मनोभवमङ्गलकलशसहोदरे॥१॥ >निजगाद सा यदुनन्दने क्रीडति हृदयानन्दने अलिकुलभञ्जनमञ्जनकं रतिनायकसायकमोचने।त्वदधरचुम्बनलम्बितकज्जलमुज्ज्वलय प्रिय लोचने नयनकुरंगतरंगविलासनिरोधकरे श्रुतिमण्डले ।मनसिजपाश विलासधरे शुभवंशे निवेशय कुण्डले भ्रमरचयं रचयन्तमुपरि रुचिरं सुचिरं मम सम्मुखे।जितकमले विमले परिकर्मय नर्मजनकमलकं मुखे मृगमदरसवलितं ललितं कुरु तिलकमलिकरजनीकरे।विहितकलंककलं कमलानन विश्रमितश्रमशीकरे मम रुचिरे चिकुरे कुरु मानद मनसिजध्वजचामरे ।रतिगलिते ललिते कुसुमानि शिखण्डिशिखण्डकडामरे सरसघने जघने मम शम्बरदारणवारणकन्दरे।मणिरशनावसनाभरणानि शुभाशय वासय सुन्दरे श्रीजयदेववचसि शुभदे हृदयं सदयं कुरु मण्डने।हरिचरणस्मरणामृतनिर्मित कलिकलुषज्वरखण्डने

Comments

Popular posts from this blog

How to get started with Vue in under a minute?

aigiri nandini - Brodha V you rock